Chapter 3 · Verse 43

Path of Selfless Service

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम्
evaṁ paraṁ sanstabhyātmānam śhatruṁ kāma-rūpaṁ

Word Meanings

evam buddheḥ param buddhvā sanstabhya ātmānam ātmanā jahi śhatrum mahā-bāho kāma-rūpam durāsadam

Translation

No translations available for this language.

Commentary

।।3.43।।उपसंहरति एवमिति। बुद्धेरेव विषयेन्द्रियादिजन्याः कामादिविक्रियाः आत्मा तु निर्विकारस्तत्साक्षीत्येवं बुद्धेः परमात्मानं बुद्ध्वा आत्मना एवंभूतनिश्चयात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य निश्चलं कृत्वा कामरूपं शत्रुं जहि मारय। दुरासदं दुःखेनासादनीयम्। दुर्विज्ञेयगतिमित्यर्थः।