Chapter 3 · Verse 41

Path of Selfless Service

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्
indriyāṇyādau bharatarṣhabha pāpmānaṁ hyenaṁ jñāna-vijñāna-nāśhanam

Word Meanings

tasmāt tvam indriyāṇi ādau niyamya bharata-ṛiṣhabha pāpmānam prajahi hi enam jñāna vijñāna nāśhanam

Translation

No translations available for this language.

Commentary

।।3.41।। यस्मादेवं तस्मात्त्वमिति। आदौ विमोहात्पूर्वमेवेन्द्रियाणि मनो बुद्धिं च नियम्य पापरूपमेनं कामं हि स्फुटं प्रजहि घातय। यद्वा प्रजहिहि परित्यज। ज्ञानमात्मविषयम् विज्ञानं शास्त्रीयं तयोर्नाशकम्। यद्वा ज्ञानं शास्त्राचार्योपदेशजम् विज्ञानं निदिध्यासनजम्।तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत इति श्रुतेः।