Chapter 3 · Verse 36

Path of Selfless Service

अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः
arjuna uvācha prayukto ’yaṁ pāpaṁ anichchhann balād

Word Meanings

arjunaḥ uvācha atha kena prayuktaḥ ayam pāpam charati pūruṣhaḥ anichchhan api vārṣhṇeya balāt iva niyojitaḥ

Translation

No translations available for this language.

Commentary

।।3.36।। तयोर्न वशमागच्छेदित्युक्तं तदेतदशक्यं मन्वानोऽर्जुन उवाच अथ केनेति। वृष्णेर्वंशेऽवतीर्णो वार्ष्णेयः हे वार्ष्णेय अनर्थरूपं पापं कर्तुमनिच्छन्नपि केन प्रयुक्तः प्रेरितोऽयं पुरुषः पापं चरति। कामक्रोधौ विवेकबलेन निरुन्धतोऽपि पुरुषस्य पुनः पापे प्रवृत्तिदर्शनादन्योऽपि तयोर्मूलभूतः कश्चित्प्रवर्तको भवेदिति संभावनायां प्रश्नः।