Chapter 3 · Verse 30

Path of Selfless Service

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः
sannyasyādhyātma-chetasā nirāśhīr nirmamo

Word Meanings

mayi sarvāṇi karmāṇi sannyasya adhyātma-chetasā nirāśhīḥ nirmamaḥ bhūtvā yudhyasva vigata-jvaraḥ

Translation

No translations available for this language.

Commentary

।।3.30।।तदेवं तत्त्वविदापि कर्म कर्तव्यं त्वं तु नाद्यापि तत्त्ववित् अतः कर्मैव कुर्वित्याह मयीति। सर्वाणि कर्माणि मयि संन्यस्य समर्प्याध्यात्मचेतसान्तर्याम्यधीनोऽहं करोमीति दृष्ट्या निराशीर्निष्कामोऽतएव मत्फलसाधनं मदर्थमिदं कर्मेत्येवं ममताशून्यश्च भूत्वा विगतज्वरस्त्यक्तशोकश्च भूत्वा युध्यस्व।