Chapter 3 · Verse 28

Path of Selfless Service

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते
guṇa-karma-vibhāgayoḥ guṇā vartanta

Word Meanings

tattva-vit tu mahā-bāho guṇa-karma vibhāgayoḥ guṇāḥ guṇeṣhu vartante iti matvā na sajjate

Translation

No translations available for this language.

Commentary

।।3.28।।विद्वांस्तु तथा न मन्यत इत्याह तत्त्वविदिति। नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागः। न मे कर्माणीति कर्मभ्योऽप्यात्मनो विभागस्तयोर्गुणकर्मविभागयोर्यस्तत्त्वं वेत्ति स तु न सज्जते कर्तृत्वाभिनिवेशं न करोति। तत्र हेतुः। गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहमिति मत्वा।