Chapter 5 · Verse 24

Path of Renunciation

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति
yo 'ntaḥ-sukho 'ntar-ārāmas tathāntar-jyotir sa brahma-nirvāṇaṁ brahma-bhūto 'dhigachchhati

Word Meanings

yaḥ antaḥ-sukhaḥ antaḥ-ārāmaḥ tathā antaḥ-jyotiḥ eva yaḥ saḥ yogī brahma-nirvāṇam brahmabhūtaḥ adhigachchhati

Translation

No translations available for this language.

Commentary

।।5.24।। न केवलं कामक्रोधवेगसंहरणमात्रेण मोक्षं प्राप्नोति अपितु योऽन्तरिति। अन्तः आत्मन्येव सुखं यस्य न विषयेषु अन्तरेवारामः क्रीडा यस्य न बहिः अन्तरेव ज्योतिर्दृष्टिर्यस्य न गीतनृत्यादिषु स एव ब्रह्मणि भूतः स्थितः सन्ब्रह्मणि निर्वाणं लयमधिगच्छति प्राप्नोति।