Chapter 5 · Verse 18

Path of Renunciation

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः
vidyā-vinaya-sampanne chaiva

Word Meanings

vidyā vinaya sampanne brāhmaṇe gavi hastini śhuni cha eva śhva-pāke cha paṇḍitāḥ sama-darśhinaḥ

Translation

No translations available for this language.

Commentary

।।5.18।।कीदृशास्ते ज्ञानिनो येऽपुनरावृत्तिं गच्छन्तीत्यपेक्षायामाह विद्याविनयसंपन्न इति। विषमेष्वपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते। पण्डिताः ज्ञानिन इत्यर्थः। तत्र विद्याविनयाभ्यां युक्ते ब्राह्मणे च शुनो यः पचति तस्मिञ्श्वपाके चेति कर्मणा वैषम्यम्। गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम्।