Chapter 6 · Verse 36

Path of Meditation

असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः
asaṅyatātmanā yogo duṣhprāpa vaśhyātmanā śhakyo ’vāptum

Word Meanings

asanyata-ātmanā yogaḥ duṣhprāpaḥ iti me matiḥ vaśhya-ātmanā tu yatatā śhakyaḥ avāptum upāyataḥ

Translation

No translations available for this language.

Commentary

।।6.36।।एतावांस्त्विह निश्चय इत्याह असंयतात्मनेति। असंयतात्मा उक्तप्रकारेणाभ्यासवैराग्याभ्यामसंयत आत्मा चित्तं यस्य तेन पुरुषेणायं योगो दुष्प्रापः प्राप्तुमशक्यः। अभ्यासवैराग्याभ्यां वश्यो वशवर्ती आत्मा चित्तं यस्य तेन पुरुषेण पुनश्चानेनैवोपायेन प्रयत्नं कुर्वता योगः प्राप्तुं शक्यः।