Chapter 6 · Verse 34

Path of Meditation

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्
chañchalaṁ balavad tasyāhaṁ nigrahaṁ vāyor

Word Meanings

chañchalam hi manaḥ kṛiṣhṇa pramāthi bala-vat dṛiḍham tasya aham nigraham manye vāyoḥ iva su-duṣhkaram

Translation

No translations available for this language.

Commentary

।।6.34।।एतत्स्फुटयति चञ्चलमिति। चञ्चलं स्वभावेनैव चपलम्। किंच प्रमाथि प्रमथनशीलं देहेन्द्रियक्षोभकमित्यर्थः। किंच बलवद्विचारेणापि जेतुमशक्यम्। किंच दृढं विषयवासनानुबद्धतया दुर्भेद्यम्। अतो यथाकाशे दोधूयमानस्य वायोः कुम्भादिषु निरोधनमशक्यं तथा तस्य मनसोऽपि निग्रहं निरोधं सुदुष्करं सर्वथा कर्तुमशक्यं मन्ये।