Chapter 6 · Verse 28

Path of Meditation

युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते
yuñjann evaṁ sadātmānaṁ vigata-kalmaṣhaḥ atyantaṁ

Word Meanings

yuñjan evam sadā ātmānam yogī vigata kalmaṣhaḥ sukhena brahma-sansparśham atyantam sukham aśhnute

Translation

No translations available for this language.

Commentary

।।6.28।।ततश्च कृतार्थो भवतीत्याह युञ्जन्निति। एवमनेन प्रकारेण सर्वदात्मानं मनो युञ्जन्वशीकुर्वन्विशेषेण सर्वात्मना गतं कल्मषं यस्य स योगी सुखेनानायासेन ब्रह्मणः संस्पर्शोऽविद्यानिवर्तकः साक्षात्कारस्तदेवात्यन्तं सर्वोत्तमं सुखमश्नुते। जीवन्मुक्तो भवतीत्यर्थः।