Chapter 6 · Verse 21

Path of Meditation

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः
ātyantikaṁ tad buddhi-grāhyam chaivāyaṁ sthitaśh

Word Meanings

sukham ātyantikam yat tat buddhi grāhyam atīndriyam vetti yatra na cha eva ayam sthitaḥ chalati tattvataḥ

Translation

No translations available for this language.

Commentary

।।6.21।।आत्मन्येव तोषे हेतुमाह सुखमिति। यत्र यस्मिन्नवस्थाविशेषे यत्तत्किमपि निरतिशयमात्यन्तिकं नित्यं सुखं वेत्ति। ननु तदा विषयेन्द्रियसंबन्धाभावात्कुतः सुखं स्यात्तत्राह। अतीन्द्रियं विषयेन्द्रियसंबन्धातीतम्। केवलं बुद्ध्यैवात्माकारतया ग्राह्यम्। अतएव च यत्र स्थितः संस्तत्त्वत आत्मस्वरूपान्नैव चलति।