Chapter 6 · Verse 13

Path of Meditation

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्
samaṁ kāya-śhiro-grīvaṁ dhārayann achalaṁ nāsikāgraṁ svaṁ diśhaśh chānavalokayan

Word Meanings

samam kāya śhiraḥ grīvam dhārayan achalam sthiraḥ samprekṣhya nāsika-agram svam diśhaḥ cha anavalokayan

Translation

No translations available for this language.

Commentary

।।6.13।।चित्तैकाग्र्योपयोगिनीं देहादिधारणां दर्शयन्नाह सममिति द्वाभ्याम्। काय इति देहमध्यभागो विवक्षितः। कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं मूलाधारादारभ्य मूर्धाग्रपर्यन्तं सममवक्रं निश्चलं धारयन् स्थिरः। दृढप्रयत्नो भूत्वेत्यर्थः। स्वकीयं नासिकाग्रं संप्रेक्ष्य च। अर्धनिमीलितनेत्र इत्यर्थः। इतस्ततो दिशश्चानवलोकयन्नासीतेत्युत्तरेणान्वयः।