Chapter 6 · Verse 10

Path of Meditation

योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः
ātmānaṁ yata-chittātmā nirāśhīr

Word Meanings

yogī yuñjīta satatam ātmānam rahasi sthitaḥ ekākī yata-chitta-ātmā nirāśhīḥ aparigrahaḥ

Translation

No translations available for this language.

Commentary

।।6.10।।एवं योगारूढस्य लक्षणमुक्त्वेदानीं तस्य साङ्गं योगं विधत्ते योगीत्यादिना। स योगी परमो मत इत्यन्तेन ग्रन्थेन। योगीति। योगी योगारूढः आत्मानं मनो युञ्जीत समाहितं कुर्यात्। सततं निरन्तरं रहस्येकान्ते स्थितः सन्नेकाकी सङ्गशून्यः यतं संयतं चित्तमात्मा देहश्च यस्य निराशीर्निराकाङ्क्षो निराहारो वा अपरिग्रहः परिग्रहशून्यश्च।