Chapter 4 · Verse 31

Path of Knowledge and the Disciplines of Action

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतो़ऽन्यः कुरुसत्तम
yajña-śhiṣhṭāmṛita-bhujo nāyaṁ loko ’styayajñasya kuto ’nyaḥ kuru-sattama

Word Meanings

yajña-śhiṣhṭa amṛita-bhujaḥ yānti brahma sanātanam na ayam lokaḥ asti ayajñasya kutaḥ anyaḥ kuru-sat-tama

Translation

No translations available for this language.

Commentary

।।4.31।।यज्ञशिष्टेति। यज्ञान्कृत्वाऽवशिष्टे कालेऽनिषिद्धमन्नममृतरूपं भुञ्जत इति तथा ते सनातनं ब्रह्म ज्ञानद्वारेण प्राप्नुवन्ति। तदकरणे दोषमाह नायं लोक इति। अयमल्पसुखोऽपि मनुष्यलोकोऽयज्ञस्य यज्ञानुष्ठानशून्यस्य नास्ति। कुतोऽन्यः परलोकः। अतो यज्ञाः सर्वथा कर्तव्या इत्यर्थः।