Chapter 4 · Verse 23

Path of Knowledge and the Disciplines of Action

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते
jñānāvasthita-chetasaḥ yajñāyācharataḥ samagraṁ

Word Meanings

gata-saṅgasya muktasya jñāna-avasthita chetasaḥ yajñāya ācharataḥ karma samagram pravilīyate

Translation

No translations available for this language.

Commentary

।।4.23।।किंच गतसङ्गस्येति। गतसङ्गस्य निष्कामस्य रागादिभिर्मुक्तस्य। ज्ञानेऽवस्थितं चेतो यस्य। यज्ञायपरमेश्वरार्थं कर्माचरतः सतः समग्रं सवासनं कर्म प्रविलीयते अकर्मभावमापद्यते। आरूढयोगपक्षे यज्ञायेति। यज्ञसंरक्षणार्थं लोकसंग्रहार्थमेव कर्म कुर्वत इत्यर्थः।