Chapter 1 · Verse 33

Arjuna's Dilemma

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
kāṅkṣhitaṁ no rājyaṁ ta ’vasthitā prāṇāṁs

Word Meanings

yeṣhām arthe kāṅkṣhitam naḥ rājyam bhogāḥ sukhāni cha te ime avasthitāḥ yuddhe prāṇān tyaktvā dhanāni cha

Translation

No translations available for this language.

Commentary

।। 1.33 विजयादिकं फलं किं न पश्यसीति चेत्तत्राह न काङ्क्ष इति। एतदेव प्रपञ्चयति किं न इति सार्धाभ्याम्। यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः। अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः।